|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.71. अध्यायः 071
Mahabharata - Adi Parva - Chapter Topics
स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः॥ 1 ॥ कचदेवयान्योः परस्परशापदानम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-71-0x(357)(3258)
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम्।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्॥ 1-71-1(3259)
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च।
भ्राजसे विद्यया चैव तपसा च दमेन च॥ 1-71-2(3260)
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः।
तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः॥ 1-71-3(3261)
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि॥ 1-71-4(3262)
स समावृतविद्यो मां भक्तां भजितुमर्हसि।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्॥
कच उवाच। 1-71-5(3263)
पूज्यो मान्यश्च भगवान्यथा तव पिता मम।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम॥ 1-71-6(3264)
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम॥ 1-71-7(3265)
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि॥ 1-71-8(3266)
देवयान्युवाच। 1-71-9x(358)
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः।
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम॥ 1-71-9(3267)
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः।
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे॥ 1-71-10(3268)
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्॥ 1-71-11(3269)
कच उवाच। 1-71-12x(359)
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे॥ 1-71-12(3270)
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि॥ 1-71-13(3271)
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम॥ 1-71-14(3272)
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम॥ 1-71-15(3273)
देवयान्युवाच। 1-71-16x(360)
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति॥ 1-71-16(3274)
कच उवाच। 1-71-17x(361)
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः।
गुरुणा चाननुज्ञातः काममेवं शपस्व माम्॥ 1-71-17(3275)
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया।
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः॥ 1-71-18(3276)
तस्माद्भवत्या यः कामो न तथा स भविष्यति।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति॥ 1-71-19(3277)
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति॥ 1-71-20(3278)
वैशम्पायन उवाच। 1-71-21x(362)
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः॥ 1-71-21(3279)
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः।
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन्॥ 1-71-22(3280)
देवा ऊचुः। 1-71-23x(363)
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम्।
न ते यशः प्रणशिता भागभाक्व भविष्यसि॥ ॥ 1-71-23(3281)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकसप्ततितमोऽध्यायः॥ 71 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-71-1 समावृतव्रतं समाप्तव्रतम्॥ 1-71-9 गुरुः पुत्रो यस्य अङ्गिरसः पुत्रः पौत्रः॥ 1-71-15 उत्थिता अनलसा॥ 1-71-17 अननुज्ञातस्त्वदुक्तकार्ये॥ 1-71-23 प्रणशिता प्रणङ्क्ष्यति॥ एकसप्ततितमोऽध्यायः॥ 71 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|